गंगालहरी (फक्त संस्कृत) ( वृत्त- शिखरिणी अक्षरे - 17, गण- य म न स भ ल ग , यति - 6, 11 ) समृद्धं सौभाग्यं सकलवसुधायाः किमपि तन्- महैश्वर्यं लीलाजनितजगतः खण्डपरशोः। श्रुतीनां सर्वस्वं सुकृतमथ मूर्तं सुमनसां सुधासोदर्यं * ते सलिलमशिवं नः शमयतु ।। 1 ।। दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां द्रुतं दूरीकुर्वन्सकृदपि गतो दृष्टिसरणिम्। अपि द्रागाविद्याद्रुमदलनदीक्षागुरुरिह प्रवाहस्ते वारां श्रियमयमपारां दिशतु न:।। 2 ।। उदञ्चन्मार्तण्डस्फुटकपटहेरम्बजननी- कटाक्षव्याक्षेपक्षणजनितसंक्षोभनिवहाः। भवन्तु त्वङ्गन्तो हरशिरसि गंगातनुभुव- स्तरङ्गाः प्रोत्तुङ्गा दुरितभयभङ्गाय भवताम् ।। 3 ।। तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा मया सर्वेऽवज्ञासरणिमथ नीताः सुरगणाः। इदानीमौदास्यं भजसि यदि भागीरथि तदा निराधारो हा रोदिमि कथय केषामिह पुरः।। 4 ।। स्मृतिं याता पुंसामकृतसुकृतानामपि च या हरत्यन्तस्तन्द्रां तिमिरमिव चन्द्रांशुसरणिः। इयं स...